के आर् नारायणन्
भारतीयराजनेतारः / From Wikipedia, the free encyclopedia
श्रीकोचेरिल् रामन् नारायणन् ( ( शृणु) /ˈkoʊxərɪl rɑːmən nɑːrɑːjənən/) (मलयाळ: കെ.ആർ. നാരായണൻ, आङ्ग्ल: K R Narayanan) भारतगणराज्यस्य दशमः राष्ट्रपतिः । राष्ट्रपतेः कार्ये पारदर्शिता भवतु इति विचारस्य जनकः, अनुगामी च श्रीनारायणन् देशहिताय बहूनि कार्याणि अकरोत् । भारतगणराज्यस्य प्रप्रथमः दलित-राष्ट्रपतिः एषः । प्रतिभावत् व्यक्तित्वं, ज्ञानस्य तीव्रपिपासा, कर्मनिष्ठा तस्य सफलतायाः मूलकारणानि । अन्ताराष्ट्रियविषय-शिक्षा-राजनीति-विज्ञान-दर्शन-साहित्य-कला-नृत्य-सङ्गीत-पर्यटनादीनां विषयाणां गहनतया अध्ययनं कृतमासीत् तेन । सर्वेषु विषयेषु नैपुण्यं प्राप्तः सः स्वस्य ज्ञानस्य लाभं पुस्तकमाध्यमेनापि जनसामान्येभ्यः अयच्छत् । सः स्वस्य जीवनविषये कथयति स्म यत्,
“ | I see and understand both the symbolic as well as the substantive elements of the life. Sometimes I visualize it as a journey of an individual from a remote village on the sidelines of society to the hub of social standing. But at the same time I also realize that my life encapsulates the ability of the democratic system to accommodate and empower marginalized sections of society | ” |
त्वरिततथ्यानि कोचेरिल् रामन् नारायणन् Kocheril Raman Narayanan, भारतस्य दशमः राष्ट्रपतिः ...
कोचेरिल् रामन् नारायणन् Kocheril Raman Narayanan | |
---|---|
भारतस्य दशमः राष्ट्रपतिः | |
कार्यालये २५/७/१९९७ – २५/७/२००२ | |
प्रधानमन्त्री | गुजराल अटल बिहारी वाजपेयी |
उपराष्ट्रपतिः | किशन कान्त |
पूर्वगमः | श्रीशङ्कर दयाल शर्मा |
पादानुध्यातः | ए पी जे अब्दुल् कलाम् |
उपराष्ट्रपतिः | |
कार्यालये २१/८/१९९२ – २४/७/१९९७ | |
राष्ट्रपतिः | श्रीशङ्कर दयाल शर्मा |
पूर्वगमः | श्रीशङ्कर दयाल शर्मा |
पादानुध्यातः | किशन कान्त |
व्यक्तिगत विचाराः | |
जननम् | २७/१०/१९२० उळवूर, केरलराज्यं, भारतम् |
मरणम् | ९/११/२००५ नवदेहली, भारतम् |
राजनैतिकपक्षः | इण्डियन् नेशनल् कोङ्ग्रेस् |
मुख्यशिक्षणम् | केरलविश्वविद्यालयः (B.A., M.A.) लण्डन् स्कूल ऑफ् इकनॉमिक्स् (B.Sc) |
धर्मः | हिन्दुधर्मः |
हस्ताक्षरम् |
पिदधातु