पर्वताः
From Wikipedia, the free encyclopedia
पर्वति - पर्व (पूरणे) अतच् (उ ३-११०)
- पयोधि तर्णकपदं पर्वतं सिकतामयम् ।
- पातालं च स्थलीपृष्ठं प्रैक्षतामितविक्रमः ॥ याद-२२-५१
पर्वतः सीमिते भूप्रदेशे शिखररूपेण स्थितः महा भूराशिः एव । समुद्रस्तरम् आधारीकृत्य स्थितः अत्युन्नतः पर्वतः नाम मौण्टेवरेस्ट्(८,८४८ मी (२९,०२९ पादमितम्)) एशियाखण्डे हिमालये वर्तते । सौरमण्डले अत्युन्नतः पर्वतः नाम ओलिम्पस् मान्स् (२१,१७१ मी (६९,४५९ पादमितम्)) मङ्गलग्रहे विद्यते । एशियाखण्डे ६४%, युरोपखण्डे २५%, दक्षिणामेरिकाखण्डे २२%, आस्ट्रेलियाखण्डे १७%, आफ्रिकाखण्डे ३% भागाः पर्वतप्रदेशाः । भूमौ २४% पर्वतभागाः । १०% जनाः पर्वतीयप्रदेशे निवसन्ति । जगतः बह्व्यः नद्यः पर्वतमूलाः । ५०% मानवाः पर्वतजलमेव अवलम्बन्ते जीवनाय ।