फेस्बुक्
सामाजिक सञ्जाल / From Wikipedia, the free encyclopedia
फेस्बुक् इति नाम्ना काचित् सामाजिकजालकर्मसेवा विद्यते। एतस्य विमोचनं २००४ तमस्य वर्षस्य फरवरीमासे अभवत्। एतस्य स्वामित्वं सञ्चालनं च फेस्बुक्, इति निगमितेन क्रियते।[5], फेस्बुक् इत्यस्मिन् एकार्बुदाधिकाः सदस्याः सन्ति।[6] तेषां च अर्द्धाधिकाः फेस्बुक् इत्यस्य प्रयोगं जङ्गमोपकरणे कुर्वन्ति।[7] जालस्थलस्य प्रयोगात् पूर्वे प्रयोक्त्रा पञ्जीकरणं करणीयं भवति। ततः पश्चात् ते स्वकीयं वैयक्तिकं वृत्तं निर्मातुं शक्नुवन्ति। अन्यान् च सदस्यान् मित्रत्वेन योजयितुं शक्नुवन्ति, परस्परं च सन्देशानां विनिमयं कर्त्तुं शक्नुवन्ति। तेषु च सन्देशेषु स्वचालिताः सूचनाः अपि भवन्ति । अपरञ्च, सदस्याः सामान्याभिरुचिकान् समूहान् अपि प्रवेशितुं शक्नुवन्ति, तेषां च व्यवस्थापनं कार्यस्थलं, विद्यालयं, महाविद्यालयं अन्यं गुणं वाऽऽधृत्य भवति। अपि च सदस्याः स्वमित्राणि कार्यस्थलाज्जनाः अथवा घनिष्ठमित्राणि इति वर्गेषु अपि व्यवस्थापयितुं शक्नुवन्ति। अद्य दिने फेस्बुक इति माध्यमेन व्यापारमपि कर्तुं शक्नुवन्ति ।
Screenshot फेस्बुक् इत्यस्य गृहपृष्ठस्य पटलचित्रम् | |
जालपृष्ठम् | facebook.com |
---|---|
प्रकारः | सामाजिकजालकर्मसेवा |
पञ्जीकरणम् | आवश्यकम् |
उपलभ्यमाना भाषा(ः) | बहुभाषात्मकम् (70) |
पञ्जीकृत व्यवहारकारीणः | एकार्बुदाधिकम् [1] (active October 2012) |
लिखितरूपं | C++ तथा च PHP[2] |
स्वामी | फेस्बुक्, निगमितम् |
निर्माता |
|
प्रकाशनम् | 4, 2004 (2004-02-04) |
राजस्वः | $5.1 billion (2012)[3] |
एलेक्सा रैङ्क् | 2 (February 2013[update])[4] |
वर्तमानस्थितिः | Active |
फेस्बुक् इत्यस्य संस्थापना मार्क-जुकरबर्गः स्वकीयैः महाविद्यालयीयैः सकक्षकैः सह कृतवान्। ते च - एडवर्डो-सेवरिन्, एन्ड्र्यू-मैक्कोलम्, डस्टिन्-मोस्कोविट्ज्, तथा च क्रिस्-ह्यूग्स् इति।[8]