भीमबेट्का-शिलाश्रयाः
From Wikipedia, the free encyclopedia
भीमबेट्का (भीमबैठका) भारतस्य मध्यप्रदेराज्यस्य रायसेनमण्डले स्थितः पुरातनकास्य आवासः । अयम् आदिमानवैः निर्मितचित्रैः शैलाश्रयैः च प्रसिद्धः । एतानि चित्राणि शिलायुगतः मध्ययुगपर्यन्तकालस्य इति इतिहासकाराणां विश्वासः । प्राचीनकालस्य भित्तयः, लघुस्तूपानि, पाशाणनिर्मितगृहाणि, शुङ्गराजवंशस्य, गुप्तवंशस्य कालीनाः आभिलेखाः, परमारराजवंशीयकालस्य मन्दिरावशेषाः च अस्मिन् शिलाश्रये सन्ति । भीमबेट्काक्षेत्रं भोपालमण्डलस्य भारतीयपुरातत्त्वसर्वेक्षणविभागेन सामान्यशकस्य१९९०तमवर्षे एतत् राष्ट्रियमहत्स्थानम् इति उद्घुष्टम् । तत् पश्चात् सा.श. २००३तमवर्षे युनेस्कोद्वारा एतत् स्थानं विश्वपरम्परास्थानम् इति उद्घुष्टम् । महाभारतस्य भीमेन सह सम्बद्धं स्थानम् आसीत् अतः तस्य नाम्नि आह्वयन्ति । एताः गुहाः मध्यभारतस्य पठारस्य दक्षिणकोणे स्थिते विन्ध्याचलस्य शिखरसीमान्ते सन्ति ।[1];अस्य दक्षिणे सतपुडायाः पर्वताश्रेण्याः आरम्भः ।[2]अस्य संशोधनवर्षम् सा.श.१९५७-१९५८वर्षयोः डा. विष्णु श्रीधर वाकणकर्]] कृतवान् ।
भीमबेट्कायाः शिलाश्रयाः | |
---|---|
विश्वपरम्परास्थानानि | |
राष्ट्रम् | भारतम्, |
प्रकारः | सांस्कृतिकम् |
मानदण्डः | |
अनुबन्धाः | ९२५ |
क्षेत्रम् | एषियापेसिफिक् |
निर्देशाङ्कः | iii, v |
शिलाभिलेखस्य इतिहासः | |
शिलाभिलेखाः | क्रि.श.२००३ (२७तमं सत्रम्) |
* विश्वपरम्परावल्याम् अङ्कितानि नामानि । ^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम् |