रावणः
From Wikipedia, the free encyclopedia
रावणः ( ( शृणु) (/ˈrɑːvənəhə/)) (हिन्दी: रावन, आङ्ग्ल: Ravan) रामायणस्य मुख्यपात्रेष्वन्यतमः । लङ्काधिपः एषः प्राचीनभारतेतिहासगतः विशिष्टपुरुषः । प्राचीनकालस्य वर्णसङ्करः सः । रावणस्य पिता ब्राह्मणः विश्वावसुः माता राक्षसकुलसम्भूता कैकसा च । रावणः ब्रह्माणमधिकृत्य दशसहस्रवर्षाणि यावत् तपस्याम् आचरत्। विशिष्टं वरमेकं प्राप्नोति च यद् देवताभ्यः अथवा अन्यशक्तिभ्यः मरणं न प्राप्नुयामिति । रावणस्य दशशिरांसि, विंशतिहस्ताः, ब्रह्मणः वरकारणात् चिरंजीवित्वम्, एवं सर्वस्मात् कारणात् रावणः लोककण्टकः अभवत् । एषः स्वस्य दशशिरोभिः नाम सामान्यानाम् अपेक्षया दशगुणिताधिकसामर्थ्येन चिन्तयति स्म ।
त्वरिततथ्यानि रावणः Ravana, जन्मस्थलम् ...
रावणः Ravana | |
---|---|
लङ्केशः | |
जन्मस्थलम् |
विषरख उत्तरप्रदेशः भारतम्[1] |
निखातस्थानम् | लङ्का |
पूर्वराजः | कुबेरः |
उत्तराधिकारी | विभिषणः |
सङ्गी | मन्दोदरी |
सन्ततिः |
मेघनादः अतिकाया अक्षयकुमारः देवान्तका नरान्तका त्रिशिरा प्रहस्ता |
राजवंशः | राक्षसः |
पिता | विश्वावसुः |
माता | कैकसा |
धार्मिकविश्वासः | शैवमतम् - हिन्दुः - जैनमतम्[2] |
पिदधातु