शङ्कर दयाल शर्मा
भारतीयराजनेतारः / From Wikipedia, the free encyclopedia
श्रीशङ्कर दयाल शर्मा ( ( शृणु) /ˈʃənkərə dəjɑːlə ʃərmɑː/) (हिन्दी: शङ्कर दयाल शर्मा, आङ्ग्ल: Shankar Dayal Sharma) भारतगणराज्यस्य नवमः राष्ट्रपतिः । श्रीशङ्करः उपराष्ट्रपतित्वेन, राष्ट्रपतित्वेन च कार्यरतो भूत्वा दशवर्षाणि यावत् भारतमातुः सेवाम् अकरोत् । महात्मनः आरभ्य के पी सिंह पर्यन्तं उत्कृटैः नेतृभिः सह तेन कार्यं कृतम् । स्वतन्त्रतान्दोलनं, स्वतन्त्रताप्राप्तिः, देशस्य नवनिर्माणं, देशसेवाधारितराजनीतिः, स्वार्थपूर्तेः राजनीतिः च सर्वं तस्य नेत्रयोः सम्मुखं घटितम् आसीत् । कर्मठता, देशभक्तिः च तस्य शक्तिः आसीत् ।
त्वरिततथ्यानि श्रीशङ्कर दयाल शर्माShankar Dayal Sharma, भारतस्य नवमः राष्ट्रपतिः ...
श्रीशङ्कर दयाल शर्मा Shankar Dayal Sharma | |
---|---|
भारतस्य नवमः राष्ट्रपतिः | |
कार्यालये २५/७/१९९२ – २५/७/१९९७ | |
प्रधानमन्त्री | नरसिंह राव अटल बिहारी वाजपेयी देवे गौडा इन्द्र कुमार गुजराल |
उपराष्ट्रपतिः | के आर् नारायणन् |
पूर्वगमः | श्रीवेङ्कटरामन् |
पादानुध्यातः | के आर् नारायणन् |
भारतीयः उपराष्ट्रपतिः | |
कार्यालये १९८७/९/१९९८७ – २५/७/१९९२ | |
राष्ट्रपतिः | श्रीवेङ्कटरमन |
पूर्वगमः | श्रीवेङ्कटरमन |
पादानुध्यातः | के आर नारायणन् |
महाराष्ट्रराज्यस्य राज्यपालः | |
कार्यालये ३/४/१९८६ – २/९/१९८७ | |
मुख्यमन्त्री | शङ्कर राव चव्हाण |
पूर्वगमः | कोना प्रभाकर राव् |
पादानुध्यातः | कासु ब्रह्मानन्द रेड्डि |
पञ्जाबराज्यस्य राज्यपालः (भारतम्) | |
कार्यालये २६/११/१९८५ – २/४/१९८६ | |
मुख्यमन्त्री | सुरजित सिंह बरनाला |
पूर्वगमः | होकिशे सेमा |
पादानुध्यातः | सिद्धार्थ शङ्कर राय |
आन्ध्रप्रदेशराज्यस्य राज्यपालः | |
कार्यालये २९/८/१९८४ – २६/११/१९८५ | |
मुख्यमन्त्री | नादेण्ड्ल भास्कर राव् एन् टी रामा राव् |
पूर्वगमः | ठाकुर राम लाल |
पादानुध्यातः | कुमुदबेन मणिशङ्कर जोशी |
व्यक्तिगत विचाराः | |
जननम् | १९/८/१९१८ भोपाल-महानगरं, ब्रिटिशशासितभारतं (अधुना मध्यप्रदेशराज्यं, भारतम्) |
मरणम् | २६/१२/१९९९ (८१ वयसि) देहली-महानगरं, भारतम् |
राजनैतिकपक्षः | कोङ्ग्रेस-पक्षः |
पतिः/पत्नी | विमला शर्मा |
अपत्यानि | द्वौ पुत्रौ एका पुत्री |
मुख्यशिक्षणम् | आगरा-विश्वविद्यालयः आहरा-महाविद्यालयः पञ्जाब-विश्वविद्यालयः लखनऊ-विश्वविद्यालयः फिट्विलियम्-महाविद्यालयः हार्वर्ड्-विश्वविद्यालयः |
धर्मः | हिन्दुधर्मः |
हस्ताक्षरम् |
पिदधातु