सुज़ुमे
From Wikipedia, the free encyclopedia
सुज़ुमिः (जापान-भाषायाम् - すずめの戸締まり, देवनागार्याम्: सुज़ुमे नो तोजिमारी, lit. 'तात्पर्यम् - 'सुज़ुमेः निषेधनम्') विंशदुत्तर-द्वि-सहस्र-तमे वर्षे विमोचितं जापानीय-अनुप्राणित-साहस-चित्रम् अस्ति यस्य लेखनं निर्देशनं शिन्काय-माकोतवा, निर्माणं कोमिक्स-वेव्-फ़िल्म्स्-संस्थया एवं च विमोचनं तोहोवा कृतम्। चित्रस्य कथायाम् सप्त-दश-वर्षीया उच्च-विद्यार्थिनी इवातो-सुज़ुमिः मुनकाता-सोतश् च सम्भूय जापान-देशे विपत्तीः निवारयितुं प्रयतेते।
सुज़ुमे | |
---|---|
नाट्य-विमोचन-विज्ञापनपत्रम् | |
निर्देशकः | शिन्काय-माकोतौः |
निर्माता |
|
लेखकः | शिन्काय-माकोतौः |
अभिनेतारः |
|
सङ्गीतनिर्देशकः |
|
चित्रपटनिर्माता | ट्सुद-रियोसुकिः |
सम्पादकः | शिन्काय-माकोतौः |
स्टुडियो |
|
वितरणकर्ता | तोहौः |
चलच्चित्रमुक्तिदिवसः | 2022-नवम्बर-मासे 11 दिनाङ्के |
चालनसमयः | 122 निमेषाः[1] |
देशः | जापान-देशः |
बाक्स् आफिस् | 32.1 कोटि-डॉलराणि |
अस्मिन् चलच्चित्रे नानोका-हारायाः माट्सुमुरा-होकुटोः च स्वरौ श्रूयेते, तनाका-मसायोषेः पात्र-चित्राणि, ट्सुचिया-केनिचि-द्वारा अनुप्राणनम्, ताञ्जि-ताकुमि-द्वारा कला-निर्देशनं, राडविम्प्स्-जिन्नोचिकाजुम-द्वारा सङ्गीतं च सन्ति। शिन्कायस्य राडविम्प्स्-तनाकाभ्यां सह तृतीयः सहकार्यः अस्ति, षोडशोत्तर-द्वि-सहस्रतम-वर्षीयस्य "तव नाम" इति चित्रस्य एवं च षोडशोत्तर-द्वि-सहस्रतम-वर्षीयस्य "वातावरण-बाला" इति चलचित्रात् पश्चात्। विंशदधिक-द्वि-सहस्रतम-वर्षस्य प्रारम्भे अस्य चित्रस्य उत्पादनं आरब्धम्, अन्ततः द्वाविंशदधिक-द्वि-सहस्र-तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं समाप्तम् इति घोषितं जातम्। अस्य चित्रस्य उपन्यासरूपान्तरणं, यत् शिन्कायेन एव लिखितम्, अमाषिम-देन्किना चित्रीकृता चित्र-कथा च चलच्चित्रस्य विमोचनात् पूर्वमेव आरब्धौ। तोहोकु-भूकम्प-सागरोत्प्लवेन प्रेरितम् आसीत्।
सुज़ुमे प्रथमवारं जापानदेशे अय्मॅक्स इति चित्रगृहेषु 2022 तमस्य वर्षस्य नवम्बर्-मासस्य ७ दिनाङ्के प्रदर्शितम्। नवम्बर्-मासस्य 11 दिनाङ्के च आराष्ट्रे चित्र-गृहेषु प्रदर्शितम्। 2023 तमे वर्षे अन्तर्राष्ट्र-विमोचनं क्रन्चिरोलेन, सोनी-पिक्चर्स्-रिलीसिङ्ग्-संस्थया (या सोनी पिक्चर्स्-रिलीसिङ्ग्-इण्टरनॅशनल्-संस्था-चिह्नस्य अन्तर्गता), वायल्ड-बञ्च्-इण्टरनॅशनल्-संस्थया च जातम्। समीक्षकेभ्यः सकारात्मक-समीक्षाः प्राप्ताः। अनुप्राणनस्य्, पात्राणां, भावनात्मक-प्रभावस्य, सङ्गीतस्य च प्रशंसा अपि जाता। किन्तु चलच्चित्रस्य कथानकं शिन्कायस्य पूर्वकृतिभिः सदृशमिति आलोचितमपि। आविश्वस्मिन् 32.1 कोटि-रूप्यकेभ्यो न्यूनं धनं प्राप्तम्। 2022 तमे वर्षे जापानदेशे चतुर्थं सर्वाधिकम् धनार्जनं कृतवत् चलच्चित्रम्। जापानदेशे सर्वकालिकस्य चतुर्थं सर्वाधिक-धनार्जकं चलचित्रमपि अस्ति।