संस्कृतम्
भाषा / From Wikipedia, the free encyclopedia
संस्कृतं जगतः एकतमातिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्व् एकतमा प्राचीनतमा। भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, संस्कृतावाक्, दैवीवाक्, इत्यादिभिर् नामभिर् एषा भाषा प्रसिद्धा।
संस्कृतम् भाषाम् | |
---|---|
देवनागर्यांसंस्कृतम् | |
उच्चारणम् | [ˈsɐ̃skr̩tɐm] ( शृणु) |
विस्तारः | भारतम् नेपाल जम्बुद्वीपः |
भाषाकुटुम्बः |
भारोपीयभाषाः
|
लिपिः |
देवनागिरी[1] ब्राह्मी |
आधिकारिकस्थितिः | |
व्यावहारिकभाषा | •हिमाचलप्रदेशराज्यम् •उत्तराखण्डराज्यम् |
नियन्त्रणम् | राजकीयनियन्त्रणं नास्ति। |
भाषा कोड् | |
ISO 639-1 | sa |
ISO 639-2 | san |
ISO 639-3 | san |
भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृताद् एवाधिकाः भारतीयभाषाः उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिन्याष्टाध्यायीति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्व् अन्यतमा वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्थाः वेदाः सन्ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्त्य् अस्त्य् एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाश् चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्त्य् अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-वैज्ञानिक-पारलौकिकविषयैः अपि सुसम्पन्नेयं देववाणी।