हिन्दुदेवालयः
From Wikipedia, the free encyclopedia
दैवं विना मानवः न जीवति इत्येतत् मानवस्वभावस्य अध्ययनेन ज्ञातं सत्यम् । मानवचरित्रम् इदं स्पष्टतया दर्शयति । ईश्वरः अस्ति । सः सृष्टिकर्ता, नियन्ता च । तस्य प्रेम्णा सुखं तस्य कोपेन दुःखप्राप्तिः इत्येषः विश्वासः विभिन्नरीत्या दृश्यते विश्वे विद्यमानेषु सर्वेषु मानवेषु ।
देवस्य आलयः एव देवालयः । तस्य भगवतः वासस्थानम् । अयं देवस्थानं, देवावासः, देवतागृहम्, मन्दिरम् इत्यादिभिः शब्दैः निर्दिश्यते ।