गुजरातराज्यम्
From Wikipedia, the free encyclopedia
गुजरातराज्यं ( ( शृणु) /ˈɡʊdʒərɑːtərɑːdʒjəm/) (गुजराती: ગુજરાત, आङ्ग्ल: Gujarat) भारतस्य पश्चिमे स्थितं किञ्चन राज्यम् । गान्धीनगरम् अस्य राज्यस्य केन्दम् । कर्णावती-सुरत-वडोदरा-राजकोट-महानगराणि राज्यस्मिन् प्रमुखनगराणि सन्ति । अस्य राज्यस्य बृहत्तमं नगरं कर्णावती-महानगरम् अस्ति । श्रीकृष्णस्य द्वारका, द्वादशज्योतिर्लिङ्गेषु अन्यतमः सोमनाथश्च अत्र राराजते । भारतस्य शिल्पी सरदार वल्लभभाई पटेल, भारतस्वतन्त्रतान्दोलननेता मोहनदास करमचन्द गान्धी, भारतीयान्तरिक्षकार्यक्रमस्य पितामहः विज्ञानी विक्रम साराभाई, महान् वैज्ञानिकः होमी भाभा, भारतीयोद्योगस्य पितामहः जमशेदजी ताता, भारतीयचलच्चित्रस्य पितामहः दादासाहेब फाळके, नवभारतस्य स्वप्नद्रष्टा धीरूभाई अम्बाणी, कन्दुकक्रीडायाः अभूतपूर्वक्रीडकः रणजीतसिंहः, बालशिक्षाक्षेत्रे क्रान्तिजनकः गिजुभाई बधेका, भक्तशिरोमणिः नरसिंह महेता इत्यादयः महान्तः व्यक्तयः गुजरातराज्यस्य पवित्रभूमौ जन्म अधन्त । भारतगणराज्यस्य वर्तमानप्रधानमन्त्री नरेन्द्र मोदी त्रयोदशवर्षाणि गुजरातराज्यस्य मुख्यमन्त्री आसीत् ।
गुजरातराज्यम् ગુજરાત |
|||
---|---|---|---|
— राज्यम् — | |||
|
|||
भारते गुजरातराज्यस्य स्थानम् | |||
गुजरातराज्यस्य मानचित्रम् | |||
Coordinates (Gandhinagar): २३°१३′ उत्तरदिक् ७२°४१′ पूर्वदिक् | |||
राष्ट्रम् | भारतम् | ||
Established | १ मे १९६० | ||
राजधानी | गान्धिनगरम् | ||
बृहत्तमं नगरम् | कर्णावती-महानगरम् (जनसङ्ख्यादृष्ट्या) | ||
मण्डलानि | २६ | ||
सर्वकारः | |||
• राज्यपालः | ओम प्रकाश कोहली | ||
• मुख्यमन्त्री | भूपेन्द्र पटेल (भा॰ज॰प॰) | ||
• विधानसभा | सदनम् (१८२ seats) | ||
• गुजरातस्य उच्चन्यायालयस्य मुख्यन्यायाधीशः | जस्टिस् एस् जे मुख्योपाध्याय | ||
विस्तीर्णता | |||
• संहतिः | १९६,०२४ km२ | ||
क्षेत्रविस्तारः | सप्तमम् | ||
जनसङ्ख्या (२०११) | |||
• संहतिः | ६०,३८३,६२८ | ||
• रैङ्क् | दशमम् | ||
भारतीयसर्वसाधारणकालमानम् (UTC+०५:३०) | |||
ऐ एस् ओ ३१६६ कोड् | IN-GJ | ||
मानवसम्पन्मूलम् | ०.६२१ (medium) | ||
HDI rank | चतुर्दशम् (२००५) | ||
साक्षरताप्रमाणम् | ७९.३१% | ||
राज्यभाषा | गुजराती | ||
जालस्थानम् | http://www.gujaratindia.com |