राममन्दिरम्, अयोध्या
राम जन्मभूमि स्थल पर निर्मित हो रहा है हिन्दू मंदिर / From Wikipedia, the free encyclopedia
अयोध्यायाः राममन्दिरं किञ्चन हिन्दूमन्दिरम् । एतत् मन्दिरं उत्तरप्रदेशराज्यस्य अयोध्यायां रामजन्मस्थाने विद्यते [1] ०६-०८-२०१८ तमे दिनाङ्के भारतस्य प्रधानमन्त्री नरेन्द्रमोदी देवालयस्य अस्य शिलान्यासम् अकरोत् । हिन्दूजनाः एतत्स्थानं भगवतः श्रीरामचन्द्रस्य जन्मस्थानं मन्यन्ते । रामं विष्णोः सप्तमः अवतारः इति मत्वा पूजयन्ति च । १५२८ तमे वर्षे मुघल् राजा बाबरः राममन्दिरं भङ्क्त्वा बाबरीमस्जिद् इति यवनप्रार्थनामन्दिरं निर्मितवान् । रामजन्मभूमिविषये बहवः विवादाः आसन् । १९९२ तमे आंग्ल वर्षे कारसेवकानां गणेन बाबरी मस्जिद् भङ्क्तम् । एतस्य देवालयस्य निर्माणस्य उत्तरदायित्वं श्रीरामजन्मभूमितीर्थक्षेत्रसमितेः वर्तते । गुजरात् राज्यस्य सोमपुरपरिवारः देवालयस्य विन्यासम् अकरोत् ।
राममन्दिरम्, अयोध्या | |
---|---|
राममन्दिरस्य प्रारूपम् | |
नाम | |
शुद्धनाम: | राममन्दिरम् अयोध्या |
अवस्थितिः | |
देशः: | भारतम् |
राज्यम्: | उत्तरप्रदेशः |
स्थानीय: | अयोध्या |
स्थापत्यकला संस्कृतिश्च | |
मुख्यदेवः/देवी: | रामलल्ला(बालरामः) |
प्रमुखोत्सवः: | दीपावली रामनवमी नवरात्रोत्सवः |
स्थापत्यशैली: | देवालयः |
राममन्दिर प्राण प्रतिष्ठा कार्यक्रमः २२ जनवरी २०२४ तमे दिनाङ्के सम्पन्नः।[2][3][4] अस्य कार्यक्रमस्य आयोजनं श्रीरामजन्मभूमि तीर्थक्षेत्रः कृतवान् । अत्र भगवान् रामस्य बालरूपस्य (रामलला) विग्रहस्य प्राण प्रतिष्ठा कृतम्।